|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.150. अध्यायः 150
Mahabharata - Shanti Parva - Chapter Topics
शौनकेन जनमेजयप्रार्थनया तदीयब्रह्महत्यापनोदनाङ्गीकरणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-150-0x(5793)(70992)
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः।
गर्ह्यं भवान्गर्हयते निन्द्यं निन्दति मां पुनः॥ 12-150-1(70993)
धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये।
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितम्॥ 12-150-2(70994)
स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः।
प्राप्तं घोरं भयं नूनं मया वैवस्वतादपि॥ 12-150-3(70995)
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्।
सर्वं मन्युं विनीय त्वमभि मां वद शौनक॥ 12-150-4(70996)
[महानासं ब्राह्मणानां भूयो वक्ष्यामि सांप्रतम्।]
`गन्ता गतिं ब्राह्मणानां भविष्याम्यर्थवान्पुनः।'
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्॥ 12-150-5(70997)
न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति।
स्तुतीरलभमानानां संविदं वेद निश्चयात्॥ 12-150-6(70998)
निन्दमानः स्वमात्मानं भूयो वक्ष्यामि सांप्रतम्।
भूयश्चैवाभिमज्जन्ति निर्धर्मा निर्जला इव॥ 12-150-7(70999)
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन।
अवाक्च प्रपतिष्यन्ति पुलिन्दशवरा इव॥ 12-150-8(71000)
अविज्ञायैव मे प्रज्ञां बालस्येव स पण्डितः।
ब्रह्मन्पितेव पुत्रस्य प्रीतिमान्भव शौनक॥ 12-150-9(71001)
शौनक उवाच। 12-150-10x(5794)
किमाश्चर्यं यतः प्राज्ञो बहुकुर्यादसांप्रतम्।
इति वै पण्डितो भूत्वा भूतानां को नु तप्यते॥ 12-150-10(71002)
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्।
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति॥ 12-150-11(71003)
न चोपलभते कश्चिन्न चाश्चर्याणि पश्यति।
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु॥ 12-150-12(71004)
विदित्वा भवतो वीर्यं माहात्म्यं चैव चागमे।
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते॥ 12-150-13(71005)
तद्वै वारित्रकं तात ब्राह्मणानामकुप्यताम्।
अथवा तप्यसे पापे धर्मं चेदनुपश्यसि॥ 12-150-14(71006)
जनमेजय उवाच। 12-150-15x(5795)
अनुतप्ये च पापेन न चाधर्मं चराम्यहम्।
बुभूषेद्भजमानं च प्रीतिमान्भव शौनक॥ 12-150-15(71007)
शौनक उवाच। 12-150-16x(5796)
छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप।
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मरन्॥ 12-150-16(71008)
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये।
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह॥ 12-150-17(71009)
सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये।
क्रोशतां सर्वभूतानां हाहाधिगिति जल्पताम्॥ 12-150-18(71010)
वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः।
ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशं॥ 12-150-19(71011)
केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति कार्यताम्।
जानीहि मत्कृतं तात ब्राह्मणान्प्रति भारत॥ 12-150-20(71012)
यथा ते सत्कृताः क्षेमं लभेरंस्त्वं तथा कुरु।
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप॥ 12-150-21(71013)
जनमेजय उवाच। 12-150-22x(5797)
नैव वाचा न मनसा पुनर्जातु न कर्मणा।
द्रोग्धाऽस्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे॥ ॥ 12-150-22(71014)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः॥ 150॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-150-2 त्वा त्वाम्॥ 12-150-5 ब्राह्मणानां भक्त इति शेषः॥ 12-150-8 पुलिन्दाः शबराः म्लेच्छभेदाः॥ 12-150-9 ब्रह्मन्ब्राह्मण॥ 12-150-10 साधुषु निर्विण्णात्मा विरक्तः परोक्षस्तद्दृष्टिपथादपेतः तैश्च धेक्कृतः सः प्रज्ञानं चोपलभते। तत्सङ्गं विना प्रज्ञा दुर्लभैवेत्यर्थः॥ 12-150-13 ब्रह्मा ब्राह्मणः शरणं रक्षिता। यथाशान्ति शान्तिमनतिक्रम्य॥ 12-150-17 उपाह्वये शिष्यं करोमीत्यर्थः॥ 12-150-18 शैनकं पापिष्ठसंग्रहीतारं धिगिति जल्पतां ताननादृत्य उपाह्वये इत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|